Pages

Shiva Ashtottara Sata Nama Stotram in Sanskrit

Shiva Ashtottara Sata Nama Stotram – Sanskrit Lyrics (Text)

Shiva Ashtottara Sata Nama Stotram – Sanskrit Script

रचन: विष्णु

शिवॊ महॆश्वरश्शम्भुः पिनाकी शशिशॆखरः
वामदॆवॊ विरूपाक्षः कपर्दी नीललॊहितः ॥ 1 ॥

शङ्करश्शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः
शिपिविष्टॊम्बिकानाथः श्रीकण्ठॊ भक्तवत्सलः ॥ 2 ॥

भवश्शर्वस्त्रिलॊकॆशः शितिकण्ठः शिवप्रियः
उग्रः कपाली कामारी अन्धकासुरसूदनः ॥ 3 ॥

गङ्गाधरॊ ललाटाक्षः कालकालः कृपानिधिः
भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥ 4 ॥

कैलासवासी कवची कठॊरस्त्रिपुरान्तकः
वृषाङ्कॊ वृषभारूढॊ भस्मॊद्धूलितविग्रहः ॥ 5 ॥

सामप्रियस्स्वरमयस्त्रयीमूर्तिरनीश्वरः
सर्वज्ञः परमात्मा च सॊमसूर्याग्निलॊचनः ॥ 6 ॥

हविर्यज्ञमयस्सॊमः पञ्चवक्त्रस्सदाशिवः
विश्वॆश्वरॊ वीरभद्रॊ गणनाथः प्रजापतिः ॥ 7 ॥

हिरण्यरॆतः दुर्धर्षः गिरीशॊ गिरिशॊनघः
भुजङ्गभूषणॊ भर्गॊ गिरिधन्वी गिरिप्रियः ॥ 8 ॥

कृत्तिवासः पुरारातिर्भगवान् प्रमथाधिपः
मृत्युञ्जयस्सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥ 9 ॥

व्यॊमकॆशॊ महासॆनजनकश्चारुविक्रमः
रुद्रॊ भूतपतिः स्थाणुरहिर्भुध्नॊ दिगम्बरः ॥ 10 ॥

अष्टमूर्तिरनॆकात्मा सात्त्विकश्शुद्धविग्रहः
शाश्वतः खण्डपरशुरजः पाशविमॊचकः ॥ 11 ॥

मृडः पशुपतिर्दॆवॊ महादॆवॊ‌உव्ययॊ हरिः
भगनॆत्रभिदव्यक्तॊ दक्षाध्वरहरॊ हरः ॥ 12 ॥

पूषदन्तभिदव्यग्रॊ सहस्राक्षस्सहस्रपात्
अपवर्गप्रदॊ‌உनन्तस्तारकः परमॆश्वरः ॥ 13 ॥

ऎवं श्री शम्भुदॆवस्य नाम्नामष्टॊत्तरंशतम् ॥